Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 82
    ऋषिः - सप्तऋषय ऋषयः देवता - मरुतो देवताः छन्दः - आर्षी गायत्री स्वरः - षड्जः
    7

    ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च। ध॒र्त्ता च॑ विध॒र्त्ता च॑ विधार॒यः॥८२॥

    स्वर सहित पद पाठ

    ऋ॒तः। च॒। स॒त्यः। च॒। ध्रु॒वः। च॒। ध॒रुणः॑। च॒। ध॒र्त्ता। च॒। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। च॒। वि॒धा॒र॒य इति॑ विऽधार॒यः ॥८२ ॥


    स्वर रहित मन्त्र

    ऋतश्च सत्यश्च धु्रवश्च धरुणश्च । धर्ता च विधर्ता च विधारयः ॥


    स्वर रहित पद पाठ

    ऋतः। च। सत्यः। च। ध्रुवः। च। धरुणः। च। धर्त्ता। च। विधर्त्तेति विऽधर्त्ता। च। विधारय इति विऽधारयः॥८२॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 82
    Acknowledgment

    अन्वयः - हे मनुष्याः! य ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्त्ता च विधर्त्ता च विधारयः परमात्माऽस्ति, तमेव इति सर्व उपासीरन्॥८२॥

    पदार्थः -
    (ऋतः) सत्यज्ञानः (च) (सत्यः) सत्सु साधुः (च) (ध्रुवः) दृढनिश्चयः (च) (धरुणः) आधारः (च) (धर्त्ता) (च) (विधर्त्ता) (च) (विधारयः) यो विशेषेण धारयति सः॥८२॥

    भावार्थः - ये मनुष्या विद्योत्साहसत्सङ्गपुरुषार्थैः सत्यविज्ञाने धृत्वा सुशीलतां धरन्ति, त एव सुखिनो भवितुमन्याँश्च कर्त्तुं शक्नुवन्ति॥८२॥

    इस भाष्य को एडिट करें
    Top