Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 85
    ऋषिः - सप्तऋषय ऋषयः देवता - चातुर्मास्या मरुतो देवता छन्दः - स्वराडार्षी गायत्री स्वरः - षड्जः
    8

    स्वत॑वाँश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑। क्री॒डी च॑ शा॒की चो॑ज्जे॒षी॥८५॥

    स्वर सहित पद पाठ

    स्वत॑वा॒निति॒ स्वऽत॑वान्। च॒। प्र॒घा॒सीति॑ प्रऽघा॒सी। च॒। सा॒न्त॒प॒न इति॑ साम्ऽतप॒नः। च॒। गृ॒ह॒मे॒धीति॑ गृ॒ह॒मे॒धी। च॒। क्री॒डी। च॒। शा॒की। च॒। उ॒ज्जे॒षीत्यु॑त्ऽजे॒षी ॥८५ ॥


    स्वर रहित मन्त्र

    स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च । क्रीडी च शाकी चोज्जेषी ॥


    स्वर रहित पद पाठ

    स्वतवानिति स्वऽतवान्। च। प्रघासीति प्रऽघासी। च। सान्तपन इति साम्ऽतपनः। च। गृहमेधीति गृहमेधी। च। क्रीडी। च। शाकी। च। उज्जेषीत्युत्ऽजेषी॥८५॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 85
    Acknowledgment

    अन्वयः - यः स्वतवांश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च शाकी च भवेत्, स उज्जेषी स्यात्॥८५॥

    पदार्थः -
    (स्वतवान्) यः स्वान् तौति वर्द्धयति सः। अत्र तू धातोरौणादिक आनिः प्रत्ययः (च) (प्रघासी) बहवः प्रकृष्टा घासा भोज्यानि विद्यन्ते यस्य सः (च) (सान्तपनः) सम्यक् शत्रून् तापयति तस्यायम् (च) (गृहमेधी) प्रशस्तो गृहे मेधः सङ्गमोऽस्यास्तीति सः (च) (क्रीडी) (च) अवश्यं क्रीडितुं शीलः (शाकी) अवश्यं शक्तुं शीलः (च) (उज्जेषी) उत्कृष्टतया जेतुं शीलः॥८५॥

    भावार्थः - यो बहुबलान्नसामर्थ्यो गृहस्थो भवति, स सर्वत्र विजयमाप्नोति॥८५॥

    इस भाष्य को एडिट करें
    Top