Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 84
    ऋषिः - सप्तऋषय ऋषयः देवता - मरुतो देवताः छन्दः - निचृदार्षी जगती स्वरः - निषादः
    5

    ई॒दृक्षा॑सऽएता॒दृक्षा॑सऽऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ऽएत॑न। मि॒तास॑श्च॒ सम्मि॑तासो नोऽअ॒द्य सभ॑रसो मरुतो य॒ज्ञेऽअ॒स्मिन्॥८४॥

    स्वर सहित पद पाठ

    ई॒दृक्षा॑सः। ए॒ता॒दृक्षा॑सः। ऊँ॒ऽइत्यूँ॑। सु। नः॒। स॒दृक्षा॑स॒ इति॑ स॒ऽदृक्षा॑सः। प्रति॑सदृक्षास॒ इति॒ प्रति॑ऽसदृक्षासः। आ। इ॒त॒न॒। मि॒तासः॑। च॒। सम्मि॑तास॒ इति॒ सम्ऽमि॑तासः। नः॒। अ॒द्य। सभ॑रस॒ इति॒ सऽभ॑रसः। म॒रु॒तः॒। य॒ज्ञे। अ॒स्मिन् ॥८४ ॥


    स्वर रहित मन्त्र

    ईदृक्षास एतादृक्षासऽऊ षु णः सदृक्षासः प्रतिसदृक्षासऽएतन । मितासश्च सम्मितासो नोऽअद्य सभरसो मरुतो यज्ञे अस्मिन् ॥


    स्वर रहित पद पाठ

    ईदृक्षासः। एतादृक्षासः। ऊँऽइत्यूँ। सु। नः। सदृक्षास इति सऽदृक्षासः। प्रतिसदृक्षास इति प्रतिऽसदृक्षासः। आ। इतन। मितासः। च। सम्मितास इति सम्ऽमितासः। नः। अद्य। सभरस इति सऽभरसः। मरुतः। यज्ञे। अस्मिन्॥८४॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 84
    Acknowledgment

    अन्वयः - हे मरुतो विद्वांसो य ईदृक्षास एतादृक्षासस्सदृक्षासः प्रतिसदृक्षासो नोऽस्मान् स्वेतन उ मितासः सम्मितासश्चास्मिन् यज्ञे सभरसो भवताऽद्य नो रक्षत, तान् वयमपि सततं सत्कुर्याम॥८४॥

    पदार्थः -
    (ईदृक्षासः) एतल्लक्षणसहिताः (एतादृक्षासः) एतैः पूर्वोक्तैस्सदृशाः (उ) वितर्के (सु) सुष्ठु (नः) अस्मान् (सदृक्षासः) पक्षपातं विहाय समानदृष्टयः (प्रतिसदृक्षासः) आप्तसदृशाः (आ) (इतन) समन्तात् प्राप्नुत (मितासः) परिमितविज्ञानाः (च) (सम्मितासः) तुलावत् सत्यविवेचकाः (नः) अस्मान् (अद्य) (सभरसः) स्वसमानपोषकाः (मरुतः) ऋत्विजो विद्वांसः (यज्ञे) संगन्तव्ये व्यवहारे (अस्मिन्)॥८४॥

    भावार्थः - यदा धार्मिका विद्वांसः क्वापि मिलेयुर्यानुपागच्छेयुरध्यापयेयुः सुशिक्षेरँश्च तदेमे सर्वैः सत्कर्त्तव्याः॥८४॥

    इस भाष्य को एडिट करें
    Top