Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 76
    ऋषिः - वसिष्ठ ऋषिः देवता - अग्निर्देवता छन्दः - आर्ष्युष्णिक् स्वरः - ऋषभः
    11

    प्रेद्धो॑ऽअग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या यविष्ठ। त्वा शश्व॑न्त॒ऽउप॑यन्ति॒ वाजाः॑॥७६॥

    स्वर सहित पद पाठ

    प्रेद्ध॒ इति॒ प्रऽइ॑द्धः। अ॒ग्ने॒। दी॒दि॒हि॒। पु॒रः। नः॒। अज॑स्रया। सू॒र्म्या᳖। य॒वि॒ष्ठ॒। त्वाम्। शश्व॑न्तः। उप॑। य॒न्ति॒। वाजाः॑ ॥७६ ॥


    स्वर रहित मन्त्र

    प्रेद्धोऽअग्ने दीदिहि पुरो नो जस्रया सूर्म्या यविष्ठ । त्वाँ शश्वन्तऽउप यन्ति वाजाः ॥


    स्वर रहित पद पाठ

    प्रेद्ध इति प्रऽइद्धः। अग्ने। दीदिहि। पुरः। नः। अजस्रया। सूर्म्या। यविष्ठ। त्वाम्। शश्वन्तः। उप। यन्ति। वाजाः॥७६॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 76
    Acknowledgment

    अन्वयः - हे यविष्ठाग्ने! त्वं पुरः प्रेद्धः सन्नजस्रया सूर्म्या नोऽस्मान् दीदिहि शश्वन्तो वाजास्त्वामुपयन्ति॥७६॥

    पदार्थः -
    (प्रेद्धः) प्रकृष्टतया प्रदीप्तः (अग्ने) अग्निरिव दुःखदाहकः योगिन् (दीदिहि) कामयस्व (पुरः) प्रथमम् (नः) अस्मान् (अजस्रया) अनुपक्षीणया (सूर्म्या) ऐश्वर्येण (यविष्ठ) अतिशयेन युवन् (त्वाम्) (शश्वन्तः) निरन्तरं वर्त्तमानाः (उप, यन्ति) प्राप्नुवन्तु (वाजाः) विज्ञानवन्तो जनाः॥७६॥

    भावार्थः - यदा मनुष्याः शुद्धात्मानो भूत्वाऽन्यानुपकुर्वन्ति, तदा तेऽपि सर्वत्रोपकृता भवन्ति॥७६॥

    इस भाष्य को एडिट करें
    Top