यजुर्वेद - अध्याय 18/ मन्त्र 51
ऋषिः - शुनःशेप ऋषिः
देवता - अग्निर्देवता
छन्दः - स्वराडार्षी त्रिष्टुप्
स्वरः - धैवतः
9
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यꣳ सु॑प॒र्णं वय॑सा बृ॒हन्त॑म्। तेन॑ व॒यं ग॑मेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ꣳ स्वो रुहा॑णा॒ऽअधि॒ नाक॑मुत्त॒मम्॥५१॥
स्वर सहित पद पाठअ॒ग्निम्। यु॒न॒ज्मि॒। शव॑सा। घृ॒तेन॑। दि॒व्यम्। सु॒प॒र्णमिति॑ सुऽप॒र्णम्। वय॑सा। बृ॒हन्त॑म्। तेन॑। व॒यम्। ग॒मे॒म॒। ब्र॒ध्नस्य॑। वि॒ष्टप॑म्। स्वः॑। रुहा॑णाः। अधि॑। नाक॑म्। उ॒त्त॒मम् ॥५१ ॥
स्वर रहित मन्त्र
अग्निँयुनज्मि शवसा घृतेन दिव्यँ सुपर्णँवयसा बृहन्तम् । तेन वयङ्गमेम ब्रध्नस्य विष्टपँ स्वो रुहाणा अधि नाकमुत्तमम् ॥
स्वर रहित पद पाठ
अग्निम्। युनज्मि। शवसा। घृतेन। दिव्यम्। सुपर्णमिति सुऽपर्णम्। वयसा। बृहन्तम्। तेन। वयम्। गमेम। ब्रध्नस्य। विष्टपम्। स्वः। रुहाणाः। अधि। नाकम्। उत्तमम्॥५१॥
विषयः - कीदृशा नराः सुखिनो भवन्तीत्युपदिश्यते॥
अन्वयः - अहं वयसा बृहन्तं दिव्यं सुपर्णमग्निं शवसा घृतेन युनज्मि, तेन स्वो रुहाणा वयं ब्रध्नस्य विष्टपमुत्तमं नाकमधिगमेम॥५१॥
पदार्थः -
(अग्निम्) पावकम् (युनज्मि) सुगन्धैर्द्रव्यैर्युक्तं करोमि (शवसा) बलेन (घृतेन) आज्येन (दिव्यम्) दिवि शुद्धगुणे भवम् (सुपर्णम्) सुष्ठु पालनपूर्तिकरम् (वयसा) व्याप्त्या (बृहन्तम्) महान्तम् (तेन) (वयम्) (गमेम) गच्छेम। अत्र बहुलं छन्दसि [अष्टा॰२.४.७३] इति शपो लुक् (ब्रध्नस्य) महतः (विष्टपम्) विष्टान् प्रविष्टान् पाति येन तत् (स्वः) सुखम् (रुहाणाः) रोहतः (अधि) उपरिभावे (नाकम्) अविद्यमानदुःखम् (उत्तमम्) श्रेष्ठम्॥५१॥
भावार्थः - ये मनुष्या अग्नौ सुसंस्कृतानि सुगन्ध्यादियुक्तानि द्रव्याणि प्रक्षिप्य वाय्वादिशुद्धिद्वारा सर्वान् सुखयन्ति, तेऽत्युत्तमं सुखमाप्नुवन्ति॥५१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal