Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 65
    ऋषिः - विश्वकर्मर्षिः देवता - यज्ञो देवता छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    11

    यत्र॒ धारा॒ऽअन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः। तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत्॥६५॥

    स्वर सहित पद पाठ

    यत्र॑। धाराः॑। अन॑पेता॒ इत्यन॑पऽइताः। मधोः॑। घृ॒तस्य॑। च॒। याः। तत्। अ॒ग्निः। वै॒श्व॒क॒र्म॒ण इति॑ वैश्वऽकर्म॒णः। स्वः॑। दे॒वेषु॑। नः॒। द॒ध॒त् ॥६५ ॥


    स्वर रहित मन्त्र

    यत्र धाराऽअनपेता मधोर्घृतस्य च याः । तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधत् ॥


    स्वर रहित पद पाठ

    यत्र। धाराः। अनपेता इत्यनपऽइताः। मधोः। घृतस्य। च। याः। तत्। अग्निः। वैश्वकर्मण इति वैश्वऽकर्मणः। स्वः। देवेषु। नः। दधत्॥६५॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 65
    Acknowledgment

    अन्वयः - यत्र मधोर्घृतस्य च या अनपेता धारा विद्वद्भिः क्रियन्ते, तद्वैश्चकर्मणोऽग्निर्नो देवेषु स्वर्दधत्॥६५॥

    पदार्थः -
    (यत्र) यज्ञे (धाराः) प्रवाहा (अनपेताः) नापेताः पृथग्भूताः (मधोः) मधुरगुणान्वितस्य द्रव्यस्य (घृतस्य) आज्यस्य (च) (याः) (तत्) ताभिः (अग्निः) पावकः (वैश्वकर्मणः) विश्वान्यखिलानि कर्माणि यस्मात् स एव (स्वः) सुखम् (देवेषु) दिव्येषु व्यवहारेषु (नः) अस्मभ्यम् (दधत्) दधाति। दधातेर्लेटो रूपम्॥६५॥

    भावार्थः - ये मनुष्या वेद्यादिकं निर्माय सुगन्धिमिष्टादियुक्तं बहुघृतमग्नौ जुह्वति, ते सर्वान् रोगान्निहत्यातुलं सुखं जनयन्ति॥६५॥

    इस भाष्य को एडिट करें
    Top