Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 69
    ऋषिः - इन्द्रविश्वामित्रावृषी देवता - इन्द्रो देवता छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    10

    स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क् कुणा॑रुम्। अ॒भि वृ॒त्रं वर्द्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ॥६९॥

    स्वर सहित पद पाठ

    स॒हदा॑नु॒मिति॑ स॒हऽदा॑नुम्। पु॒रु॒हू॒तेति॑ पुरुऽहूत। क्षि॒यन्त॑म्। अ॒ह॒स्तम्। इ॒न्द्र॒। सम्। पि॒ण॒क्। कुणा॑रुम्। अ॒भि। वृ॒त्रम्। वर्द्ध॑मानम्। पिया॑रुम्। अ॒पाद॑म्। इ॒न्द्र॒। त॒वसा॑। ज॒घ॒न्थ॒ ॥६९ ॥


    स्वर रहित मन्त्र

    सहदानुम्पुरुहूत क्षियन्तमहस्तमिन्द्र सम्पिणक्कुणारुम् । अभि वृत्रँवर्धमानम्पियारुमपादमिन्द्र तवसा जघन्थ ॥


    स्वर रहित पद पाठ

    सहदानुमिति सहऽदानुम्। पुरुहूतेति पुरुऽहूत। क्षियन्तम्। अहस्तम्। इन्द्र। सम्। पिणक्। कुणारुम्। अभि। वृत्रम्। वर्द्धमानम्। पियारुम्। अपादम्। इन्द्र। तवसा। जघन्थ॥६९॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 69
    Acknowledgment

    अन्वयः - हे पुरुहूतेन्द्र! यथा सूर्यः सहदानुं क्षियन्तं कुणारुमहस्तं पियारुमपादमभिवर्द्धमानं वृत्रं सम्पिणक् तथा हे इन्द्र! शत्रूँस्तवसा जघन्थ॥६९॥

    पदार्थः -
    (सहदानुम्) यः सहैव ददाति तम् (पुरुहूत) बहुभिस्सज्जनैः सत्कृत (क्षियन्तम्) गच्छन्तम् (अहस्तम्) अविद्यमानौ हस्तौ यस्य तम् (इन्द्र) शत्रुविदारक सेनेश (सम्) (पिणक्) पिनष्टि (कुणारुम्) शब्दयन्तम्। अत्र ‘क्वण शब्दे’ इत्यस्माद्धातोरौणादिक आरुः प्रत्ययः। (अभि) (वृत्रम्) मेघमिव (वर्द्धमानम्) (पियारुम्) पानकारकम् (अपादम्) पादेन्द्रियरहितम् (इन्द्र) सभेश (तवसा) बलेन। तव इति बलनामसु पठितम्॥ (निघं॰२.९) (जघन्थ) जहि॥६९॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवत्प्रतापिनो भवन्ति, तेऽजातशत्रवो जायन्ते॥६९॥

    इस भाष्य को एडिट करें
    Top