यजुर्वेद - अध्याय 18/ मन्त्र 77
ऋषिः - उशना ऋषिः
देवता - विश्वेदेवा देवताः
छन्दः - निचृद गायत्री
स्वरः - षड्जः
6
त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑। रक्षा॑ तो॒कमु॒त त्मना॑॥७७॥
स्वर सहित पद पाठत्वम्। य॒वि॒ष्ठ॒। दा॒शुषः॑। नॄन्। पा॒हि॒। शृ॒णु॒धि। गिरः॑। रक्ष॑। तो॒कम्। उ॒त। त्मना॑ ॥७७ ॥
स्वर रहित मन्त्र
त्वँयविष्ठ दाशुषो नऋृँ पाहि शृणुधी गिरः । रक्षा तोकमुत त्मना ॥
स्वर रहित पद पाठ
त्वम्। यविष्ठ। दाशुषः। नॄन्। पाहि। शृणुधि। गिरः। रक्ष। तोकम्। उत। त्मना॥७७॥
विषयः - अथ सभेशसेनेशयोः कर्त्तव्यमाह॥
अन्वयः - हे यविष्ठ राजन्! त्वं दाशुषो नॄन् पाह्येतेषां गिरः शृणुधि, यो वीरो युद्धे म्रियेत तस्य तोकं त्मना रक्षोतापि स्त्रियादिकं च॥७७॥
पदार्थः -
(त्वम्) सभेश (यविष्ठ) अतिशयेन युवन् (दाशुषः) विद्यादातॄन् (नॄन्) अध्यापकान् मनुष्यान् (पाहि) (शृणुधि) अत्र अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः। (गिरः) विदुषां विद्यासुशिक्षिता वाचः (रक्ष) अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः। (तोकम्) पुत्रादिकम् (उत) (त्मना) आत्मना॥७७॥
भावार्थः - सभेशसेनेशयोर्द्वे कर्मणी अवश्यं कर्त्तव्ये स्त, एकं विदुषां पालनं तदुपदेशश्रवणञ्च, द्वितीयं युद्धे हतानामपत्यस्त्र्यादिपालनञ्चैवं समाचरतां पुरुषाणां सदैव विजयः श्रीः सुखानि च भवन्तीति विद्वद्भिर्ध्येयम्॥७७॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal