अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 12
अ॑र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म्। स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥
स्वर सहित पद पाठअ॒र्भ॒क: । न । कु॒मा॒र॒क: । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ॥ स: । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भुऽक्रतु॑म् ॥९२.१२॥
स्वर रहित मन्त्र
अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम्। स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥
स्वर रहित पद पाठअर्भक: । न । कुमारक: । अधि । तिष्ठत् । नवम् । रथम् ॥ स: । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुऽक्रतुम् ॥९२.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 12
विषय - मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।
पदार्थ -
(न) जैसे (कुमारकः) खिलाड़ी (अर्भकः) बालक (नवम्) नवे (रथम्) रथ पर (अधि तिष्ठत्) चढ़े। [वैसे ही] (सः) वह [जिज्ञासु] (मात्रे) माता के लिये और (पित्रे) पिता के लिये (महिषम्) महान् (मृगम्) खोजने योग्य (विभुक्रतुम्) व्यापक कर्मवाले [परमात्मा] को (पक्षत्) ग्रहण करे ॥१२॥
भावार्थ - जैसे छोटा बालक रथ आदि क्रीड़ा आदि वस्तुओं में प्रीति करता है, वैसे ही जिज्ञासु पुरुष माता-पिता की प्रसन्नता के लिये महान् परमात्मा में प्रीति करके अपना जीवन सुधारे ॥१२॥
टिप्पणी -
१२−(अर्भकः) बालकः (न) यथा (कुमारकः) कुमार क्रीडायाम्-वुन्। क्रीडकः (अधितिष्ठत्) आरोहेत् (नवम्) नवीनम् (रथम्) यानम् (सः) जिज्ञासुः (पक्षत्) परिगृह्णीयात् (महिषम्) महान्तम् (मृगम्) मृग्यम्। अन्वेषणीयम् (पित्रे) पितृप्रसादाय (मात्रे) मातृप्रसादाय (विभुक्रतुम्) व्यापककर्माणं परमात्मानम् ॥