अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 18
नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम्। इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वोजसम् ॥
स्वर सहित पद पाठनकि॑: । तम् । कर्म॑णा । न॒श॒त् । य: । च॒कार॑ । स॒दाऽवृ॑धम् ॥ इन्द्र॑म् । न । य॒ज्ञै: । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥९२.१८॥
स्वर रहित मन्त्र
नकिष्टं कर्मणा नशद्यश्चकार सदावृधम्। इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥
स्वर रहित पद पाठनकि: । तम् । कर्मणा । नशत् । य: । चकार । सदाऽवृधम् ॥ इन्द्रम् । न । यज्ञै: । विश्वऽगूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णुऽओजसम् ॥९२.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 18
विषय - मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।
पदार्थ -
(यः) जिस [परमात्मा] ने (सदावृधम्) सदा बढ़ानेवाले व्यवहार को (चकार) बनाया है, (तम्) उस (विश्वगूर्तम्) सबों को उद्यम में लगानेवाले, (ऋभ्वसम्) बुद्धिमानों को ग्रहण करनेवाले, (अधृष्टम्) अजेय, (धृष्ण्वोजसम्) निर्भय बलवाले (इन्द्रम्) इन्द्र [बडे् ऐश्वर्यवाले परमात्मा] को (नकिः) न कोई (कर्मणा) कर्म से और (न) न (यज्ञैः) दानों से (नशत्) पा सकता है ॥१८॥
भावार्थ - जो परमात्मा सृष्टि आदि अद्भुत कर्मों को करता है, और सबको पालता है, कोई भी प्राणी उस अनन्तकर्मा और अनन्तदानी परमेश्वर के समान नहीं हो सकता है ॥१८॥
टिप्पणी -
मन्त्र १८, १९ सामवेद में भी है-उ० ४।२।८, मन्त्र १८-साम० पू० ३।६।१ ॥ १८−(नकिः) न कश्चित् (तम्) प्रसिद्धम् (कर्मणा) (नशत्) प्राप्नुयात् (यः) परमेश्वरः (चकार) रचितवान् (सदावृधम्) सदावर्धकं व्यवहारम् (इन्द्रम्) (न) निषेधे (यज्ञैः) दानैः (विश्वगूर्तम्) अ० २०।३।९। विश्वं सर्वं जगत् गूर्णम् उद्यतम् उद्यमे कृतं येन तम् (ऋभ्वसम्) ऋभुर्मेधाविनाम-निघ० ३।१। अस ग्रहणे-अच्। ऋभूणां मेधाविनां ग्रहीतारम् (अधृष्टम्) अजेयम् (धृष्ण्वोजसम्) धर्षकबलम्। निर्भयपराक्रमयुक्तम् ॥