अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 16
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः। विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
स्वर सहित पद पाठय: । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भि: । अध्रि॑:ऽगु: । विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठ॑: । य: । वृ॒त्र॒ऽहा । गृ॒णे ॥९२.१६॥
स्वर रहित मन्त्र
यो राजा चर्षणीनां याता रथेभिरध्रिगुः। विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
स्वर रहित पद पाठय: । राजा । चर्षणीनाम् । याता । रथेभि: । अध्रि:ऽगु: । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठ: । य: । वृत्रऽहा । गृणे ॥९२.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 16
विषय - मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।
पदार्थ -
(यः) जो [परमेश्वर] (चर्षणीनाम्) मनुष्यों का (राजा) राजा (रथेभिः) रथों [के समान रमणीय लोक] के साथ (अध्रिगुः) बे-रोक (याता) चलनेवाला, और (यः) जो (विश्वासाम्) सब (पृतनानाम्) शत्रु सेनाओं का (तरुता) हरानेवाला, (ज्येष्ठः) अतिश्रेष्ठ (वृत्रहा) अन्धकारनाशक है, [उस की] (गृणे) मैं स्तुति करता हूँ ॥१६॥
भावार्थ - जो परमात्मा सब मनुष्य आदि प्राणियों और सूर्य आदि लोकों का स्वामी है, हम उसके गुणों को ग्रहण करके सब कष्टों से बचें ॥१६॥
टिप्पणी -
मन्त्र १६-२१ ऋग्वेद में है-८।७० [सायणभाष्य ९]।१-६। मन्त्र १६, १७ सामवेद-उ० ३।१।१, मन्त्र १६, सामवेद-पू० ३।९।१, मन्त्र १६, १७ आगे हैं-अ० २०।१०।४, ॥ १६−(यः) परमेश्वरः (राजा) ऐश्वर्यवान् (चर्षणीनाम्) मनुष्याणाम् (याता) गन्ता (रथेभिः) रथसदृशै रमणीयलोकैः सह (अध्रिगुः) अ० २०।३।१। अधृतगमनः। अनिवारितगतिः (विश्वासाम्) सर्वासाम् (तरुता) ग्रसितस्कभितस्तभितो०। पा० ७।२।३४। इकारस्य उकारः। तरिता। अभिभविता (पृतनानाम्) शत्रुसेनानाम् (ज्येष्ठः) अतिश्रेष्ठः। अतिवृद्धः (यः) (वृत्रहा) अन्धकारनाशकः (गृणे) स्तौमि तम् ॥