अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 10
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - पुरोकृतिस्त्रिपदा विराट्त्रिष्टुप्
सूक्तम् - रुद्र सूक्त
तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्वन्तरि॑क्षम्। तवे॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णत्पृ॑थि॒वीमनु॑ ॥
स्वर सहित पद पाठतव॑ । चत॑स्र: । प्र॒ऽदिश॑: । तव॑ । द्यौ: । पृ॒थि॒वी । तव॑ । इ॒दम् । उ॒ग्र॒ । उ॒रु । अ॒न्तरि॑क्षम् । तव॑ । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । पृ॒थि॒वीम् । अनु॑ ॥२.१०॥
स्वर रहित मन्त्र
तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम्। तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥
स्वर रहित पद पाठतव । चतस्र: । प्रऽदिश: । तव । द्यौ: । पृथिवी । तव । इदम् । उग्र । उरु । अन्तरिक्षम् । तव । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । पृथिवीम् । अनु ॥२.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 10
Subject - Rudra
Meaning -
Yours are these four quarters of space. The heaven is yours, the earth is yours, and yours is this vast refulgent region of light. Yours is all this that lives as soul in body, which breathes and lives on earth.