Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 33
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - दशपदा प्रकृतिः सूक्तम् - अज सूक्त

    यो वै सं॒यन्तं॒ नाम॒र्तुं वेद॑। सं॑य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै सं॒यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

    स्वर सहित पद पाठ

    य: । वै । स॒म्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । सं॒य॒तीम्ऽसं॑यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । स॒म्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.३३॥


    स्वर रहित मन्त्र

    यो वै संयन्तं नामर्तुं वेद। संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै संयन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥

    स्वर रहित पद पाठ

    य: । वै । सम्ऽयन्तम् । नाम । ऋतुम् । वेद । संयतीम्ऽसंयतीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते । एष: । वै । सम्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन: ॥५.३३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 33

    Meaning -
    Whoever the immortal soul conditioned in the five-fold state of mortality that attains to the life-season called the time of gathering and control and knows for certain that this is the time and season for gathering and control, who surrenders his mortal identity of immortality clad in light and generosity to the home, the family and the Lord Divine, takes away the power, potential and rising good fortune of his hostile rival, in fact burns and destroys the power and fortune of the hateful adversary, and rises in life by the strength of his soul.

    इस भाष्य को एडिट करें
    Top