अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 36
यो वा अ॑भि॒भुवं॒ नाम॒र्तुं वेद॑। अ॑भि॒भव॑न्तीमभिभवन्तीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा अ॑भि॒भूर्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । अ॒भि॒ऽभुव॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । अ॒भि॒भव॑न्तीम्ऽअभिभवन्तीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । अ॒भि॒ऽभू: । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन: । नि: । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । द॒ह॒ति॒ । भव॑ति । आ॒त्मना॑ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.३६॥
स्वर रहित मन्त्र
यो वा अभिभुवं नामर्तुं वेद। अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा अभिभूर्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । अभिऽभुवम् । नाम । ऋतुम् । वेद । अभिभवन्तीम्ऽअभिभवन्तीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते । एष: । वै । अभिऽभू: । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन: । नि: । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । दहति । भवति । आत्मना । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.३६॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 36
Subject - The Soul, the Pilgrim
Meaning -
Whoever the immortal soul conditioned in the five-fold state of mortality that attains to the life season named victory and excellence, and knows for certain that this is the time and season for victory and excellence, who surrenders his mortal identity of the immortal in dedication to the home, the family and the Lord Divine, steals every step of the victory and excellence of his hateful rival, in fact bums and destroys the power and fortune of his hostile adversary and rises in life by the sheer strength of his own soul.