अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 35
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - दशपदा प्रकृतिः
सूक्तम् - अज सूक्त
यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑। उ॑द्यतीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा उ॒द्यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । उ॒त्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य। श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । उ॒त्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३५॥
स्वर रहित मन्त्र
यो वा उद्यन्तं नामर्तुं वेद। उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । उत्ऽयन्तम् । नाम । ऋतुम् । वेद । उद्यतीम्ऽउद्यतीम् । एव । अप्रियस्य । भ्रातृव्यस्य। श्रियम् । आ । दत्ते । एष: । वै । उत्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन:॥५.३५॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 35
Subject - The Soul, the Pilgrim
Meaning -
Whoever the immortal soul conditioned in the five-fold state of mortality that attains to the life season named rise and progress, and knows for certain that this is the time and season for the rise and progress, who surrenders his mortal identity of the immortal clad in light and generosity in dedication to the home, the family and the Lord Divine takes off every step of the rise and progress of his hostile adversary, in fact burns and destroys the power and fortune of the hateful rival and rises in life by the strength of his soul.