अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 26
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्। म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त्पव॑मा॒नोऽधि॑ शीर्ष॒तः ॥
स्वर सहित पद पाठमू॒र्धान॑म् । अ॒स्य॒ । स॒म्ऽसीव्य॑ । अथ॑र्वा । हृद॑यम् । च॒ । यत् । म॒स्तिष्का॑त् । ऊ॒र्ध्व: । प्र । ऐ॒र॒य॒त् । पव॑मान: । अधि॑ । शी॒र्ष॒त: ॥२.२६।
स्वर रहित मन्त्र
मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्। मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥
स्वर रहित पद पाठमूर्धानम् । अस्य । सम्ऽसीव्य । अथर्वा । हृदयम् । च । यत् । मस्तिष्कात् । ऊर्ध्व: । प्र । ऐरयत् । पवमान: । अधि । शीर्षत: ॥२.२६।
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 26
Translation -
Stiching his head and the heart, the uninjuring Lord, urges forth the purifying breath above the brain in the head. (Sahsivya = having stiched).