अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 12
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
नाहमि॒न्द्राणि॑ रारण॒ सख्यु॑र्वृ॒षाक॑पेरृ॒ते। यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठन। अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्यु॑: । वृ॒षाक॑पे: । ऋ॒ते ॥ यस्य॑ । इ॒दम् । अप्य॑स् । ह॒वि: । प्रि॒यम् । दे॒वेषु॑ । गच्छ॑ति । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१२॥
स्वर रहित मन्त्र
नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते। यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठन। अहम् । इन्द्राणि । ररण । सख्यु: । वृषाकपे: । ऋते ॥ यस्य । इदम् । अप्यस् । हवि: । प्रियम् । देवेषु । गच्छति । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(न) निषेधे (अहम्) शरीरी जीवः (इन्द्राणि) म० ११। हे परमैश्वर्यवतः पुरुषस्य विभूते (रारण) रण गतौ शब्दे च-लडर्थे लिट्। गच्छामि (सख्युः) सखिभूतात् (वृषाकपेः) म० १। बलवतश्चेष्टयितुर्जीवात् (ऋते) विना (यस्य) वृषाकपेः (इदम्) दृश्यमानम् (अप्यम्) अपां प्रजानां हितम् (हविः) दातव्यग्राह्यं घृतजलादिकम् (प्रियम्) प्रीतिकरम् (देवेषु) विद्वत्सु (गच्छति) प्राप्यते। अन्यत् सिद्धम् ॥
इस भाष्य को एडिट करें