अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 23
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम्। भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठपशु॑: । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् ॥ भ॒द्रम् । भ॒ल॒ । त्यस्यै॑ । अ॒भू॒त् । यस्या॑: । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.२३॥
स्वर रहित मन्त्र
पर्शुर्ह नाम मानवी साकं ससूव विंशतिम्। भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठपशु: । ह । नाम । मानवी । साकम् । ससूव । विंशतिम् ॥ भद्रम् । भल । त्यस्यै । अभूत् । यस्या: । उदरम् । आमयत् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.२३॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(पर्शुः) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। पर+शॄ हिंसायाम्-कु डित्, पृषोदरादित्वादकारलोपः। पराणां शत्रूणां नाशयित्री (ह) अवधारणे (नाम) प्रसिद्धौ (मानवी) अ० ३।२४।३। मनु-अण्, ङीष्। मनोर्मनुष्यस्येयं विभूतिः (साकम्) सह (ससूव) ससूवेति निगमे। पा० ७।४।७४। इति सूतेर्लिटि रूपम्। सुषुवे। जनयामास (विंशतिम्) दशेन्द्रियाणि दश तेषां विषयान् च (भद्रम्) कल्याणम् (भल) भल वधे दाने निरूपणे च-अच्। हे निरूपकात्मन् (त्यस्यै) तस्यै। जनन्यै (अभूत्) (यस्याः) जनन्याः (उदरम्) गर्भाशयम् (आमयत्) अम पीडने। पीडितवान् स गर्भः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें