Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 13
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    वृसा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे। घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    वृषा॑कपायि । रेव॑ति । सुऽपु॑त्रे । आ‍त् । ऊं॒ इति॑ । सुऽस्नुषे॑ ॥ घस॑त् । ते॒ । इन्द्र॑ । उ॒क्षण॑: । प्र‍ि॒यम् । का॒चि॒त्ऽक॒रम् । ह॒वि: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१३॥


    स्वर रहित मन्त्र

    वृसाकपायि रेवति सुपुत्र आदु सुस्नुषे। घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    वृषाकपायि । रेवति । सुऽपुत्रे । आ‍त् । ऊं इति । सुऽस्नुषे ॥ घसत् । ते । इन्द्र । उक्षण: । प्र‍ियम् । काचित्ऽकरम् । हवि: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 13

    टिप्पणीः - १३−(वृषाकपायि) म० १। वृषाकप्यग्नि० पा० ४।१।३७। वृषाकपि-ङीप्, ऐकारादेशश्च। वृषाकपायी वृषाकपेः पत्न्यपैवाभिसृष्टकालतमा निरु० १२।८। वृषाकपायी वृषाकपेः पत्नी, वृषाकपिरादित्यः, तस्य पत्नी, तद्विभूतिः इति दुर्गाचार्यः। वृषाकपायी श्रीगौर्यौ-इत्यमरः, २३।१६। लक्ष्मीः, गौरी, स्वाहा, शची, जीवन्ती, शतावरी-इति शब्दकल्पद्रुमः। हे वृषाकपेर्जीवात्मनो विभूते (रेवति) धनवति (सुपुत्रे) सुवीराः पुत्रा यस्याः सकाशात् सा सुपुत्रा तत्सम्बुद्धौ (आत्) अनन्तरम् (उ) एव (सुस्नुषे) स्नुव्रश्चि०। उ० ३।६६। ष्णु प्रस्रवणे-सः कित्, टाप्। स्नुषा साधुसादिनीति वा साधुसाधिनीति वा स्वपत्यं तत् सनोतीति वा-निरु० १२।९। बहुसुखस्य वर्षयित्रि (घसत्) घस्लृ अदने-लेट्। भक्षयेत् (ते) तव (इन्द्रः) परमैश्वर्यवान् मनुष्यः (उक्षणः) उक्षतेर्वृद्धिकर्मणः-निरु० १२।९। वृद्धिकरान् पदार्थान् (प्रियम्) इष्टम् (काचित्करम्) क+आ+चिञ् चयने-क्विप्, तुक्+करोतेः-अच्। सुखाचयकरं सुखकरम्-निरु० १२।९। कं सुखं तस्याचित् संघः, तत्करम् (हविः) म० १२। घृतजलादिकम्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top