अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 2
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
परा॒ हीन्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑। नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठपरा॑ । हि। इ॒न्द्र॒ । धाव॑सि । वृ॒षाक॑पे: । अति॑ । व्यथि॑: ॥ नो इति॑ । अह॑ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र॑ । सोम॑ऽपीतये । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र: ॥१२६.२॥
स्वर रहित मन्त्र
परा हीन्द्र धावसि वृषाकपेरति व्यथिः। नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठपरा । हि। इन्द्र । धावसि । वृषाकपे: । अति । व्यथि: ॥ नो इति । अह । प्र । विन्दसि । अन्यत्र । सोमऽपीतये । विश्वस्मात् । इन्द्र: । उत्ऽतर: ॥१२६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(परा) दूरे (हि) अवधारणे (इन्द्र) परमैश्वर्यवन् मनुष्य (धावसि) शीघ्रं गच्छसि (वृषाकपेः) म० १। बलवच्चेष्टाकारकाज्जीवात्मनः (अति) अत्यन्तम् (व्यथिः) सर्वधातुभ्य इन्। उ० ४।११८। व्यथ भयसंचलनयोः-इन्। व्याकुलः (नो) नैव (अह) निश्चयेन (प्रः) (विन्दसि) लभसे। प्राप्यसे (अन्यत्र) स्वात्मनो भिन्ने (सोमपीतये) तत्त्वरसपानाय। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें