अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 18
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत्। अ॒सिं सू॒नां नवं॑ च॒रुमादे॑ध॒स्यान॒ आचि॑तं॒ विश्व॑स्मादिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठअ॒यम् । इ॒न्द्र॒ । वृषाक॑पि: । पर॑स्व॒न्तम् । ह॒तम् । वि॒दत् ॥ अ॒सिम् । सू॒नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अन॑: । आऽचि॑तम् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१८॥
स्वर रहित मन्त्र
अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्। असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठअयम् । इन्द्र । वृषाकपि: । परस्वन्तम् । हतम् । विदत् ॥ असिम् । सूनाम् । नवम् । चरुम् । आत् । एधस्य । अन: । आऽचितम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(अयम्) प्रसिद्धः (इन्द्र) परमैश्वर्यवन् मनुष्य (वृषाकपिः) म० १। बलवान् चेष्टयिता जीवात्मा (परस्वन्तम्) पॄ पालनपूरणयोः-असुन्। पालनवन्तं व्यवहारम् (हतम्) हिंसितम् (विदत्) अविदत्। प्राप्तवान् (असिम्) खड्गम् (सूनाम्) षू क्षेपे-क्त, टाप्। प्राणिवधस्थानम् (नवम्) नवीनम् (चरुम्) चरस्थानम्। विवासनम् (आत्) अनन्तरम् (एधस्य) इन्धनस्य (अनः) शकटम् (आचितम्) पूर्णम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें