अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 7
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
उ॒वे अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑। भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वीव हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठउ॒वे । अ॒म्ब॒ । सु॒ला॒भि॒के॒ । यथा॑ऽइव । अ॒ङ्ग । भ॒वि॒ष्यति॑ ॥ भ॒सत् । मे॒ । अ॒म्ब॒ । सक्थि॑ । मे॒ । शिर॑: । मे॒ । विऽइ॑व । हृ॒ष्य॒ति॒ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.७॥
स्वर रहित मन्त्र
उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति। भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठउवे । अम्ब । सुलाभिके । यथाऽइव । अङ्ग । भविष्यति ॥ भसत् । मे । अम्ब । सक्थि । मे । शिर: । मे । विऽइव । हृष्यति । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(उवे) संबोधने निपातः। हे (अम्ब) मातः (सुलाभिके) शोभनलाभे (यथा इव) येन प्रकारेणैवोक्तं तथैव (अङ्ग) हे (भविष्यति) भवतु (भसत्) म० ६। दीप्यमानं कर्म (मे) मम (अम्ब) (सक्थि) म० ६। जङ्घा (मे) (शिरः) (मे) (वि) विविधम् (इव) अवधारणे (हृष्यति) हर्षयतु। अन्यद् गतम् ॥
इस भाष्य को एडिट करें