अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 15
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
वृ॑ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत्। म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठवृ॒ष॒भ: । न । ति॒ग्मऽशृ॑ङ्ग: । अ॒न्त: । यू॒थेषु॑ । रोरु॑षत् ॥ म॒न्थ: । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । वम् । ते॒ । सु॒नोति॑ । भा॒व॒यु: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१५॥
स्वर रहित मन्त्र
वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्। मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठवृषभ: । न । तिग्मऽशृङ्ग: । अन्त: । यूथेषु । रोरुषत् ॥ मन्थ: । ते । इन्द्र । शम् । हृदे । वम् । ते । सुनोति । भावयु: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(वृषभः) पुङ्गवः (न) इव (तिग्मशृङ्गः) तीक्ष्णविषाणः (अन्तः) मध्ये (यूथेषु) सजातीयसमूहेषु (रोरुवत्) रु शब्दे-यङ्लुकि शतृ। भृशं ध्वनिं कुर्वन् (मन्थः) तत्त्वरसः (ते) तव (इन्द्र) परमैश्वर्यवन् मनुष्य (शम्) सुखदः (हृदे) हृदयाय (यम्) मन्थम् (ते) तुभ्यम् (सुनोति) निष्पादयति (भावयुः) भावं सत्तामिच्छुकः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें