अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 8
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने। किं शू॑रपत्नि न॒स्त्वम॒भ्यमीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठकिम् । सु॒बा॒हो॒ इति॑ सु बाहो । सु॒ऽअ॒ङ्गु॒रे॒ । पृथु॑स्तो॒ इति॒ । पृथु॑ऽस्तो । पृथु॑ऽजघने ॥ किम् । शू॒र॒ऽप॒त्नि॒ । न॒: । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक॑पिम् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.८॥
स्वर रहित मन्त्र
किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने। किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठकिम् । सुबाहो इति सु बाहो । सुऽअङ्गुरे । पृथुस्तो इति । पृथुऽस्तो । पृथुऽजघने ॥ किम् । शूरऽपत्नि । न: । त्वम् । अभि । अमीषि । वृषाकपिम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(किम्) आक्षेपे। किमर्थम् (सुबाहो) बलयुक्तभुजोपेते (स्वाङ्गुरे) दृढाङ्गुलिके (पृथुष्टो) अथ० ७।४६।१। ष्टुञ् स्तुतौ-डु। बहुस्तुतियुक्ते (पृथुजघने) स्थूलजङ्घे (किम्) (शूरपत्नि) हे वीरस्य भार्ये (नः) अस्माकम् (त्वम्) (अभि) सर्वतः (अमीषि) अम पीडने। आमयसि। पीडयिष्यसि (वृषाकपिम्) म० १। बलवन्तं चेष्टयितारं जीवात्मानम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें