Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 19
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म्। पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    अ॒यम् । ए॒मि॒ । वि॒ऽचाक॑शत् । वि॒ऽचि॒न्वन् । दास॑म् । आर्य॑म् ॥ पिबा॑मि । पा॒क॒सुत्व॑न: । अ॒भि । धीर॑म् । अ॒चा॒क॒श॒म् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१९॥


    स्वर रहित मन्त्र

    अयमेमि विचाकशद्विचिन्वन्दासमार्यम्। पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    अयम् । एमि । विऽचाकशत् । विऽचिन्वन् । दासम् । आर्यम् ॥ पिबामि । पाकसुत्वन: । अभि । धीरम् । अचाकशम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 19

    टिप्पणीः - १९−(अयम्) इन्द्रः (एमि) गच्छामि (विचाकशत्) अ० १३।३।१। काशृ दीप्तौ चङ्लुकि शतृ। विविधं भृशं शोभमानः (विचिन्वन्) चिञ् चयने-शतृ। परिचिन्वन्। विशेषेण जानन् (दासम्) उपक्षेपयितारम्। दस्युम् (आर्यम्) श्रेष्ठं पुरुषम् (पिबामि) पानं करोमि (पाकसुत्वनः) षुञ् अभिषवे-क्वनिप्। पाकः पक्तव्यो भवति विपक्वप्रज्ञ आत्मा-निरु० ३।१२। विपक्वप्रज्ञस्य तत्त्वरसस्य (अभि) सर्वतः (धीरम्) बुद्धिमन्तम् (अचाकशम्) काशृ दीप्तौ यङ्लुकि लङ्। शोभयामि। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top