अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 16
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒ कपृ॑त्। सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठन । स: । ई॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् ॥ स: । इत् । ई॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसेदुष॑: । वि॒ऽजृम्भ॑ते । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१६॥
स्वर रहित मन्त्र
न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्। सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठन । स: । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् ॥ स: । इत् । ईशे । यस्य । रोमशम् । निऽसेदुष: । विऽजृम्भते । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(न) निषेधे (सः) पुरुषः (ईशे) ईष्टे। ऐश्वर्यवान् भवति (यस्य) (रम्बते) लस्य रः। लम्बते। अधस्तादाश्रियते (अन्तरा) मध्ये (सक्थ्या) सक्थिनी। जङ्घे (कपृत्) क+पृ पालने-क्विप्, तुक्। कस्य शिरसः पालकः। कपालः (सः) (इत्) एव (ईशे) ईष्टे (यस्य) (रोमशम्) मत्वर्थे शप्रत्ययः। रोमयुक्तं मस्तकम् (निषेदुषः) उपविष्टस्य (विजृम्भते) विवृतं भवति। विस्तीर्यते। अन्यद् गतम् ॥
इस भाष्य को एडिट करें