अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत्त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि। तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा ॥
स्वर सहित पद पाठशि॒वा: । ते॒ । स॒न्तु॒ । ओष॑धय: । उत् । त्वा॒ । अ॒हा॒र्ष॒म् । अध॑रस्या: । उत्त॑राम् । पृ॒थि॒वीम् । अ॒भि । तत्र॑ । त्वा॒ । आ॒दि॒त्यौ । र॒क्ष॒ता॒म् । सू॒र्या॒च॒न्द्र॒मसौ॑ । उ॒भा ॥२.१५॥
स्वर रहित मन्त्र
शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि। तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥
स्वर रहित पद पाठशिवा: । ते । सन्तु । ओषधय: । उत् । त्वा । अहार्षम् । अधरस्या: । उत्तराम् । पृथिवीम् । अभि । तत्र । त्वा । आदित्यौ । रक्षताम् । सूर्याचन्द्रमसौ । उभा ॥२.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(शिवाः) सुखकराः (ते) तुभ्यम् (सन्तु) (ओषधयः) व्रीह्यादयः (उत् अहार्षम्) उद्धृतवानस्मि (त्वा) त्वाम् (अधरस्याः) नीचायाः पृथिव्याः (उत्तराम्) उत्कृष्टाम् (पृथिवीम्) भूमिम् (अभि) प्रति (तत्र) उत्तरस्यां पृथिव्याम् (आदित्यौ) अ० १।९।१। आदीप्यमानौ (रक्षताम्) पालयताम् (सूर्याचन्द्रमसौ) सूर्यचन्द्रौ यथा (उभा) उभौ ॥
इस भाष्य को एडिट करें