अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 16
यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम्। शि॒वं ते॑ त॒न्वि॒ तत्कृ॑ण्मः संस्प॒र्शेऽद्रू॑क्ष्णमस्तु ते ॥
स्वर सहित पद पाठयत् । ते॒ । वास॑: । प॒रि॒ऽधान॑म् । याम् । नी॒विम् । कृ॒णु॒षे । त्वम् । शि॒वम् । ते॒ । त॒न्वे᳡ । तत् । कृ॒ण्म॒: । स॒म्ऽस्प॒र्शे । अद्रू॑क्ष्णम् । अ॒स्तु॒ । ते॒ ॥२.१६॥
स्वर रहित मन्त्र
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम्। शिवं ते तन्वि तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥
स्वर रहित पद पाठयत् । ते । वास: । परिऽधानम् । याम् । नीविम् । कृणुषे । त्वम् । शिवम् । ते । तन्वे । तत् । कृण्म: । सम्ऽस्पर्शे । अद्रूक्ष्णम् । अस्तु । ते ॥२.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(यत्) (ते) त्वदर्थम्। स्वस्मै (वासः) वस्त्रम् (परिधानम्) उपर्य्याच्छादनम् (याम्) (नीविम्) नौ व्यो यलोपः पूर्वस्य च दीर्घः। उ० ४।१३६। नि+व्येञ् संवरणे-इण्, स च डित्, यलोपश्च। कटिबन्धनम् (कृणुषे) करोषि (त्वम्) (शिवम्) सुखकरम् (ते) तव (तन्वे) शरीराय (तत्) वस्त्रम् (कृण्मः) कुर्मः (संस्पर्शे) स्पर्शकरणे (अद्रूक्ष्णम्) इण्सिञ्जि०। उ० ३।२। रूक्ष पारुष्ये−नक्, दकारश्छान्दसः। अरूक्ष्णम्। अकोठरम् (अस्तु) (ते) तुभ्यम् ॥
इस भाष्य को एडिट करें