Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 24
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    सोरि॑ष्ट॒ न म॑रिष्यसि॒ न म॑रिष्यसि॒ मा बि॑भेः। न वै तत्र॑ म्रियन्ते॒ नो य॑न्ति अध॒मं तमः॑ ॥

    स्वर सहित पद पाठ

    स: । अ॒रि॒ष्ट॒ । न । म॒रि॒ष्य॒सि॒ । न । म॒रि॒ष्य॒सि॒ । मा । ब‍ि॒भे॒: । न । वै । तत्र॑ । म्रि॒य॒न्ते॒ । नो इति॑ । य॒न्ति॒ । अ॒ध॒मम् । तम॑: ॥२.२४॥


    स्वर रहित मन्त्र

    सोरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः। न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥

    स्वर रहित पद पाठ

    स: । अरिष्ट । न । मरिष्यसि । न । मरिष्यसि । मा । ब‍िभे: । न । वै । तत्र । म्रियन्ते । नो इति । यन्ति । अधमम् । तम: ॥२.२४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 24

    टिप्पणीः - २४−(सः) स त्वम् (अरिष्ट) हे निर्हाने (न) निषेधे (मरिष्यसि) प्राणान् त्यक्ष्यसि (न) (मरिष्यसि) (मा बिभेः) भीतिं मा कुरु (न) (वै) अवश्यम् (तत्र) ब्रह्मणि-मन्त्र २५ (म्रियन्ते) प्राणान् त्यजन्ति (नो) नैव (यन्ति) प्राप्नुवन्ति (अधमम्) नीचीनम् (तमः) अन्धकारम् ॥

    इस भाष्य को एडिट करें
    Top