अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
प्रा॒णेन॑ त्वा द्वि॒पदां॒ चतु॑ष्पदाम॒ग्निमि॑व जा॒तम॒भि सं ध॑मामि। नम॑स्ते मृत्यो॒ चक्षु॑षे॒ नमः॑ प्रा॒णाय॑ तेऽकरम् ॥
स्वर सहित पद पाठप्रा॒णेन॑ । त्वा॒ । द्वि॒ऽपदा॑म् । चतु॑:ऽपदाम् । अ॒ग्निम्ऽइ॑व । जा॒तम् । अ॒भि । सम् । ध॒मा॒मि॒ । नम॑: । ते॒ । मृ॒त्यो॒ इति॑ । चक्षु॑षे । नम॑: । प्रा॒णाय॑ । ते॒ । अ॒क॒र॒म् ॥२.४॥
स्वर रहित मन्त्र
प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि। नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥
स्वर रहित पद पाठप्राणेन । त्वा । द्विऽपदाम् । चतु:ऽपदाम् । अग्निम्ऽइव । जातम् । अभि । सम् । धमामि । नम: । ते । मृत्यो इति । चक्षुषे । नम: । प्राणाय । ते । अकरम् ॥२.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(प्राणेन) जीवनेन (त्वा) (द्विपदाम्) मनुष्यादीनाम् (चतुष्पदाम्) गवाश्वादीनाम् (अग्निम्) भौतिकपावकम् (इव) यथा (जातम्) नवोत्पन्नम् (अभि) सर्वतः (सम्) सम्यक् (धमामि) ध्मा शब्दाग्निसंयोगयोः। दीर्घश्वासेन संयोजयामि (नमः) नमस्कारः (ते) तव (मृत्यो) (चक्षुषे) दृष्टये (नमः) प्राणाय प्रकृष्टाय बलाय (ते) तव (अकरम्) कृतवानस्मि ॥
इस भाष्य को एडिट करें