Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 25
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः। यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ॥

    स्वर सहित पद पाठ

    सर्व॑: । वै । तत्र॑ । जी॒व॒ति॒ । गौ: । अश्व॑: । पुरु॑ष: । प॒शु॒: । यत्र॑ । इ॒दम् । ब्रह्म॑ । क्रि॒यते॑ । प॒रि॒ऽधि: । जीव॑नाय । कम् ॥२.२५॥


    स्वर रहित मन्त्र

    सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः। यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥

    स्वर रहित पद पाठ

    सर्व: । वै । तत्र । जीवति । गौ: । अश्व: । पुरुष: । पशु: । यत्र । इदम् । ब्रह्म । क्रियते । परिऽधि: । जीवनाय । कम् ॥२.२५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 25

    टिप्पणीः - २५−(सर्वः) निःशेषः (वै) एव (तत्र) ब्रह्माश्रये (जीवति) प्राणान् धारयति (गौः) धेनुः (अश्वः) घोटकः (पुरुषः) मनुष्यः (पशुः) गजोष्ट्रादिः (तत्र) (इदम्) प्रसिद्धम् (ब्रह्म) परिवृढः परमात्मा (परिधिः) प्राकारो यथा रक्षासाधनम् (जीवनाय) प्राणधारणाय (कम्) सुखेन ॥

    इस भाष्य को एडिट करें
    Top