Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम्। तस्मा॒त्त्वां मृ॒त्योर्गोप॑ते॒रुद्भ॑रामि॒ स मा बि॑भेः ॥

    स्वर सहित पद पाठ

    मृ॒त्यु: । ई॒शे॒ । द्वि॒ऽपदा॑म् । मृ॒त्यु: । ई॒शे॒ । चतु॑:ऽपदाम् । तस्मा॑त् । त्वाम् । मृ॒त्यो: । गोऽप॑ते: । उत् । भ॒रा॒मि॒ । स: । मा । बि॒भे॒: ॥२.२३॥


    स्वर रहित मन्त्र

    मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम्। तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥

    स्वर रहित पद पाठ

    मृत्यु: । ईशे । द्विऽपदाम् । मृत्यु: । ईशे । चतु:ऽपदाम् । तस्मात् । त्वाम् । मृत्यो: । गोऽपते: । उत् । भरामि । स: । मा । बिभे: ॥२.२३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 23

    टिप्पणीः - २३−(मृत्युः) (ईशे) ईष्टे। शासको भवति (द्विपदाम्) पदद्वयोपेतानां मनुष्यपक्ष्यादीनाम् (मृत्युः) (ईशे) (चतुष्पदाम्) पदचतुष्टययुक्तानां गवाश्वादीनाम् (तस्मात्) प्रसिद्धात् (त्वाम्) मनुष्यम् (मृत्योः) मरणात् (गोपतेः) भूमिशासकात् (उत् भरामि) उद्धारयामि (सः) स त्वम् (मा बिभेः) भयं मा कुरु ॥

    इस भाष्य को एडिट करें
    Top