अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 18
शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ। ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अंह॑सः ॥
स्वर सहित पद पाठशि॒वौ । ते॒ । स्ता॒म् । व्री॒हि॒ऽय॒वौ । अ॒ब॒ला॒सौ । अ॒दो॒म॒धौ । ए॒तौ । यक्ष्म॑म् । वि । बा॒धे॒ते॒ इति॑ । ए॒तौ । मु॒ञ्च॒त॒: । अंह॑स: ॥२.१८॥
स्वर रहित मन्त्र
शिवौ ते स्तां व्रीहियवावबलासावदोमधौ। एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥
स्वर रहित पद पाठशिवौ । ते । स्ताम् । व्रीहिऽयवौ । अबलासौ । अदोमधौ । एतौ । यक्ष्मम् । वि । बाधेते इति । एतौ । मुञ्चत: । अंहस: ॥२.१८॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(शिवौ) सुखकरौ (ते) तुभ्यम् (स्ताम्) (व्रीहियवौ) अन्नविशेषौ (अबलासौ) अ० ६।६३।१। अ+बल+अनु क्षेपणे-क्विप्। शरीरबलस्य अक्षेप्तारौ (अदोमधौ) अद भक्षणे-असुन्+मद हर्षे-अच्, दस्य धः। भोजने हर्षकरौ (एनौ) व्रीहियवौ (यक्ष्मम्) राजरोगम् (वि) विशेषेण (बाधेते) अपनयतः (एतौ) (मुञ्चतः) मोचयतः (अंहसः) कष्टात् ॥
इस भाष्य को एडिट करें