अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
परि॑ त्वा पातु समा॒नेभ्यो॑ऽभिचा॒रात्सब॑न्धुभ्यः। अम॑म्रिर्भवा॒मृतो॑ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ॥
स्वर सहित पद पाठपरि॑ । त्वा॒ । पा॒तु॒ । स॒मा॒नेभ्य॑: । अ॒भि॒ ऽचा॒रात् । सब॑न्धुऽभ्य: । अम॑म्रि॒: । भ॒व॒ । अ॒मृत॑: । अ॒ति॒ऽजी॒व: । मा । ते॒ । हा॒सि॒षु॒: । अस॑व: । शरी॑रम् ॥२.२६॥
स्वर रहित मन्त्र
परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः। अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥
स्वर रहित पद पाठपरि । त्वा । पातु । समानेभ्य: । अभि ऽचारात् । सबन्धुऽभ्य: । अमम्रि: । भव । अमृत: । अतिऽजीव: । मा । ते । हासिषु: । असव: । शरीरम् ॥२.२६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(परि) सर्वतः (त्वा) त्वाम् (पातु) रक्षतु (समानेभ्यः) समानानां सदृशगुणस्वभावानां हिताय (अभिचारात्) विरुद्धाचरणात्। उपद्रवात् (सबन्धुभ्यः) बन्धुसहितेभ्यः (अमम्रिः) आदृगमहनजनः किकिनौ। लिट् च। पा० ३।२।१७१। मृङ् प्राणत्यागे−कि, नञ्समासः। अमरणशीलः (भव) (अमृतः) अमरः। पुरुषार्थी (अतिजीवः) उत्तरजीवी (ते) तव (मा हासिषुः) ओहाक् त्यागे-लुङ्। मा त्यजन्तु (असवः) प्राणाः (शरीरम्) देहम् ॥
इस भाष्य को एडिट करें