अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
जीव॑तां॒ ज्योति॑र॒भ्येह्य॒र्वाङा त्वा॑ हरामि श॒तशा॑रदाय। अ॑वमु॒ञ्चन्मृ॑त्युपा॒शानश॑स्तिं॒ द्राघी॑य॒ आयुः॑ प्रत॒रं ते॑ दधामि ॥
स्वर सहित पद पाठजीव॑ताम् । ज्योति॑: । अ॒भि॒ऽएहि॑ । अ॒वाङ् । आ । त्वा॒ । ह॒रा॒मि॒ । श॒तऽशा॑रदाय । अ॒व॒ऽमु॒ञ्चन् । मृ॒त्यु॒ऽपा॒शान् । अश॑स्तिम् । द्राघी॑य: । आयु॑: । प्र॒ऽत॒रम् । ते॒ । द॒धा॒मि॒ ॥२.२॥
स्वर रहित मन्त्र
जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय। अवमुञ्चन्मृत्युपाशानशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥
स्वर रहित पद पाठजीवताम् । ज्योति: । अभिऽएहि । अवाङ् । आ । त्वा । हरामि । शतऽशारदाय । अवऽमुञ्चन् । मृत्युऽपाशान् । अशस्तिम् । द्राघीय: । आयु: । प्रऽतरम् । ते । दधामि ॥२.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(जीवताम्) जीव प्राणधारणे-शतृ। प्राणिनां पुरुषार्थिनाम् (ज्योतिः) अनुकरणरूपं प्रकाशम् (अभ्येहि) सर्वतः प्राप्नुहि (अर्वाङ्) अभिमुखः सन् (आ) समन्तात् (त्वा) त्वां पुरुषम् (हरामि) स्वीकरोमि (शतशारदाय) अ० १।३५।१। शतसंवत्सरयुक्ताय जीवनाय (अवमुञ्चन्) उत्सृजन् (मृत्युपाशान्) दुःखबन्धान् (अशस्तिम्) अपकीर्तिम् (द्राघीयः) प्रियस्थिर०। पा० ६।४।१५७। दीर्घ-ईयसुन्, द्राघादेशः। दीर्घतरम् (आयुः) जीवनम् (प्रतरम्) प्रकृष्टतरम् (ते) तुभ्यम् (दधामि) पोषयामि ॥
इस भाष्य को एडिट करें