Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 4
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त

    वं॒शानां॑ ते॒ नह॑नानां प्राणा॒हस्य॒ तृण॑स्य च। प॒क्षाणां॑ विश्ववारे ते न॒द्धानि॒ वि चृ॑तामसि ॥

    स्वर सहित पद पाठ

    वं॒शाना॑म् । ते॒ । नह॑नानाम् । प्रा॒ण॒हस्य॑ । तृण॑स्य । च॒ । प॒क्षाणा॑म् । वि॒श्व॒ऽवा॒रे॒ । ते॒ । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.४॥


    स्वर रहित मन्त्र

    वंशानां ते नहनानां प्राणाहस्य तृणस्य च। पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥

    स्वर रहित पद पाठ

    वंशानाम् । ते । नहनानाम् । प्राणहस्य । तृणस्य । च । पक्षाणाम् । विश्वऽवारे । ते । नध्दानि । वि । चृतामसि ॥३.४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 4

    टिप्पणीः - ४−(वंशानाम्) वश कान्तौ-अच् घञ् वा, नुम् च। वेणूनाम् (ते) तव (नहनानाम्) ग्रन्थीनाम् (प्राणाहस्य) प्र+आङ्+णह बन्धने-घञ्। बन्धनसाधनस्य (तृणस्य) (च) (पक्षाणाम्) पक्ष परिग्रहे-अच्। गृहपार्श्वानाम् (विश्ववारे) हे सर्ववरणीयपदार्थयुक्ते। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top