Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 7
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - परोष्णिक् सूक्तम् - शाला सूक्त

    ह॑वि॒र्धान॑मग्नि॒शालं॒ पत्नी॑नां॒ सद॑नं॒ सदः॑। सदो॑ दे॒वाना॑मसि देवि शाले ॥

    स्वर सहित पद पाठ

    ह॒वि॒:ऽधान॑म् । अ॒ग्नि॒ऽशाल॑म् । पत्नी॑नाम् । सद॑नम् । सद॑: । सद॑: । दे॒वाना॑म् । अ॒सि॒ । दे॒वि॒ । शा॒ले॒ ॥३.७॥


    स्वर रहित मन्त्र

    हविर्धानमग्निशालं पत्नीनां सदनं सदः। सदो देवानामसि देवि शाले ॥

    स्वर रहित पद पाठ

    हवि:ऽधानम् । अग्निऽशालम् । पत्नीनाम् । सदनम् । सद: । सद: । देवानाम् । असि । देवि । शाले ॥३.७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 7

    टिप्पणीः - ७−(हविर्धानम्) हविषां दातव्यादातव्यपदार्थानामन्नहवनवस्तूनां च स्थानम् (अग्निशालम्) पावकस्य विद्युतो वा गृहम् (पत्नीनाम्) रक्षणस्वभावानां स्त्रीणाम् (सदनम्) गृहम् (सदः) सभास्थानम् (देवानाम्) विदुषां पुरुषाणाम् (असि) (देवि) हे दिव्ये, कमनीये (शाले) गृह ॥

    इस भाष्य को एडिट करें
    Top