Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त

    यत्ते॑ न॒द्धं वि॑श्ववारे॒ पाशो॑ ग्र॒न्थिश्च॒ यः कृ॒तः। बृह॒स्पति॑रिवा॒हं ब॒लं वा॒चा वि स्रं॑सयामि॒ तत् ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । न॒ध्दम् । वि॒श्व॒ऽवा॒रे॒ । पाशे॑: । ग्र॒न्थि: । च॒ । य: । कृ॒त: । बृह॒स्पति॑:ऽइव । अ॒हम् । ब॒लम् । वा॒चा । वि । स्रं॒स॒या॒मि॒ । तत् ॥३.२॥


    स्वर रहित मन्त्र

    यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः। बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् ॥

    स्वर रहित पद पाठ

    यत् । ते । नध्दम् । विश्वऽवारे । पाशे: । ग्रन्थि: । च । य: । कृत: । बृहस्पति:ऽइव । अहम् । बलम् । वाचा । वि । स्रंसयामि । तत् ॥३.२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 2

    टिप्पणीः - २−(यत्) यस्मात् कारणात् (ते) तव (नद्धम्) बन्धनम् (विश्ववारे) सर्ववरणीयपदार्थयुक्ते (पाशः) जालः (ग्रन्थिः) ग्रन्थ सन्दर्भे-इन्। सन्धिसाधनम् (च) (यः) (कृतः) निष्पादितः (बृहस्पतिः) बृहत्या वेदवाचः पालकः (इव) यथा (अहम्) गृहस्थः (बलम्) बल प्राणने धान्यावरोधने च-अच्। धान्यराशिम् (वाचा) वाण्या। विद्यया सह (वि) विशेषेण (स्रंसयामि) स्रंसु अधःपतने-णिच्। प्रवेशयामि (तत्) तस्मात् कारणात् ॥

    इस भाष्य को एडिट करें
    Top