अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 16
ऊर्ज॑स्वती॒ पय॑स्वती पृथि॒व्यां निमि॑ता मि॒ता। वि॑श्वा॒न्नं बिभ्र॑ती शाले॒ मा हिं॑सीः प्रतिगृह्ण॒तः ॥
स्वर सहित पद पाठऊर्ज॑स्वती । पय॑स्वती । पृ॒थि॒व्याम् । निऽमि॑ता । मि॒ता । वि॒श्व॒ऽअ॒न्नम् । बिभ्र॑ती । शा॒ले॒ । मा । हिं॒सी॒: । प्र॒ति॒ऽगृ॒ह्ण॒त: ॥३.१६॥
स्वर रहित मन्त्र
ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता। विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥
स्वर रहित पद पाठऊर्जस्वती । पयस्वती । पृथिव्याम् । निऽमिता । मिता । विश्वऽअन्नम् । बिभ्रती । शाले । मा । हिंसी: । प्रतिऽगृह्णत: ॥३.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(ऊर्जस्वती) बलपराक्रमवर्धयित्री (पयस्वती) जलदुग्धादियुक्ता (पृथिव्याम्) उचितभूम्याम् (निमिता) प्रतिष्ठापिता (मिता) परिमाणयुक्ता (विश्वान्नम्) सर्वान्नम् (बिभ्रती) धारयन्ती (शाले) (मा हिंसीः) मा पीडय (प्रतिगृह्णतः) स्वीकर्तॄन् पुरुषान् ॥
इस भाष्य को एडिट करें