अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 8
अक्षु॒मोप॒शं वित॑तं सहस्रा॒क्षं वि॑षू॒वति॑। अव॑नद्धम॒भिहि॑तं॒ ब्रह्म॑णा॒ वि चृ॑तामसि ॥
स्वर सहित पद पाठअक्षु॑म् । ओ॒प॒शम् । विऽत॑तम् । स॒ह॒स्र॒ऽअ॒क्षम् । वि॒षु॒ऽवति॑ । अव॑ऽनध्दम् । अ॒भिऽहि॑तम् । ब्रह्म॑णा । वि । चृ॒ता॒म॒सि॒ ॥३.८॥
स्वर रहित मन्त्र
अक्षुमोपशं विततं सहस्राक्षं विषूवति। अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥
स्वर रहित पद पाठअक्षुम् । ओपशम् । विऽततम् । सहस्रऽअक्षम् । विषुऽवति । अवऽनध्दम् । अभिऽहितम् । ब्रह्मणा । वि । चृतामसि ॥३.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(अक्षुम्) अक्षू व्याप्तौ संघाते च-उ। व्याप्तं सर्वदर्शकं स्तम्भगृहम् (ओपशम्) आ+उप+शीङ् स्वप्ने-ड। अर्शआद्यच्। बहूपशयम्। सर्वोपयोगिनम् (विततम्) विस्तृतम् (सहस्राक्षम्) सहस्राणि व्यवहारा गवाक्षा वा यस्मिन् तम् (विषुवति) विष्लृ व्याप्तौ-कु, मतुप्। व्याप्तिमति। उच्चस्थाने (अवनद्धम्) आच्छादिनम् (अभिहितम्) कथितम्। विज्ञापितम् (ब्रह्मणा) वेदज्ञेन विप्रेण शिल्पिना (वि चृतामसि) विशेषेण ग्रन्थयामः ॥
इस भाष्य को एडिट करें