Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 15
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - त्र्यवसाना पञ्चपदातिशक्वरी सूक्तम् - शाला सूक्त

    अ॑न्त॒रा द्यां च॑ पृथि॒वीं च॒ यद्व्यच॒स्तेन॒ शालां॒ प्रति॑ गृह्णामि त इ॒माम्। यद॒न्तरि॑क्षं॒ रज॑सो वि॒मानं॒ तत्कृ॑ण्वे॒ऽहमु॒दरं॑ शेव॒धिभ्यः॑। तेन॒ शालां॒ प्रति॑ गृह्णामि॒ तस्मै॑ ॥

    स्वर सहित पद पाठ

    अ॒न्त॒रा । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । यत् । व्यच॑: । तेन॑ । शाला॑म् । प्रति॑ । गृ॒ह्णा॒मि॒ । ते॒ । इ॒माम् । यत् । अ॒न्तरि॑क्षम् । रज॑स: । वि॒ऽमान॑म् । तत् । कृ॒ण्वे॒ । अ॒हम् । उ॒दर॑म् । शे॒व॒धिऽभ्य॑: । तेन॑ । शला॑म् । प्रति॑ । गृ॒ह्णा॒मि॒ । तस्मै॑ ॥३.१५॥


    स्वर रहित मन्त्र

    अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम्। यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः। तेन शालां प्रति गृह्णामि तस्मै ॥

    स्वर रहित पद पाठ

    अन्तरा । द्याम् । च । पृथिवीम् । च । यत् । व्यच: । तेन । शालाम् । प्रति । गृह्णामि । ते । इमाम् । यत् । अन्तरिक्षम् । रजस: । विऽमानम् । तत् । कृण्वे । अहम् । उदरम् । शेवधिऽभ्य: । तेन । शलाम् । प्रति । गृह्णामि । तस्मै ॥३.१५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 15

    टिप्पणीः - १५−(अन्तरा) मध्ये (द्याम्) सूर्यप्रकाशम् (च) (पृथिवीम्) (च) (यत्) (व्यचः) विस्तारः (तेन) विस्तारेण (शालाम्) गृहम् (प्रति गृह्णामि) स्वीकरोमि (ते) तुभ्यम् (इमाम्) (यत्) (अन्तरिक्षम्) अवकाशः (रजसः) लोकस्य। गृहस्य। लोका रजांस्युच्यन्ते-निरु० ४।१९। (विमानम्) विशेषेण मानपरिमाणयुक्तम् (तत्) अन्तरिक्षम् (कृण्वे) करोमि (अहम्) गृहस्वामी (उदरम्) अ० २।३३।४। जठरमिव रक्षाधारम् (शेवधिभ्यः) अ० ६।१२३।१। निधिभ्यः। कोषेभ्यः (तेन) कारणेन (शालाम्) (प्रति गृह्णामि) (तस्मै) प्रयोजनाय ॥

    इस भाष्य को एडिट करें
    Top