अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 19
ब्रह्म॑णा॒ शालां॒ निमि॑तां क॒विभि॒र्निमि॑तां मि॒ताम्। इ॑न्द्रा॒ग्नी र॑क्षतां॒ शाला॑म॒मृतौ॑ सो॒म्यं सदः॑ ॥
स्वर सहित पद पाठब्रह्म॑णा । शाला॑म् । निऽमि॑ताम् । क॒विऽभि॑: । निऽमि॑ताम् । मि॒ताम् । इ॒न्द्रा॒ग्नी इति॑ । र॒क्ष॒ता॒म् । शाला॑म् । अ॒मृतौ॑ । सो॒म्यम् । सद॑: ॥३.१९॥
स्वर रहित मन्त्र
ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम्। इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥
स्वर रहित पद पाठब्रह्मणा । शालाम् । निऽमिताम् । कविऽभि: । निऽमिताम् । मिताम् । इन्द्राग्नी इति । रक्षताम् । शालाम् । अमृतौ । सोम्यम् । सद: ॥३.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(ब्रह्मणा) चतुर्वेदज्ञेन ब्राह्मणेन (शालाम्) गृहम् (निमिताम्) प्रतिष्ठापिताम् (कविभिः) मेधाविभिः। शिल्पिभिः (निर्मिताम्) सुदृढं निर्मिताम् (मिताम्) परिमाणयुक्ताम् (इन्द्राग्नी) वायुपावकौ (रक्षताम्) (शालाम्) (अमृतौ) मरणरहितौ। सुखकरौ (सोम्यम्) अ० ३।१४।१३। ऐश्वर्यमयम् (सदः) गृहम् ॥
इस भाष्य को एडिट करें