अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 10
अ॒मुत्रै॑न॒मा ग॑च्छताद्दृ॒ढा न॒द्धा परि॑ष्कृता। यस्या॑स्ते विचृ॒ताम॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः ॥
स्वर सहित पद पाठअ॒मुत्र॑ । ए॒न॒म् । आ । ग॒च्छ॒ता॒त् । दृ॒ढा । न॒ध्दा । परि॑ष्कृता । यस्या॑: । ते॒ । वि॒ऽचृ॒ताम॑सि । अङ्ग॑म्ऽअङ्गम् । परु॑:ऽपरु: ॥३.१०॥
स्वर रहित मन्त्र
अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता। यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥
स्वर रहित पद पाठअमुत्र । एनम् । आ । गच्छतात् । दृढा । नध्दा । परिष्कृता । यस्या: । ते । विऽचृतामसि । अङ्गम्ऽअङ्गम् । परु:ऽपरु: ॥३.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(अमुत्र) तत्र निर्दिष्टे स्थाने (एनम्) गृहिणम् (आगच्छतात्) आगच्छ। प्राप्नुहि (दृढा) (नद्धा) अवनद्धा। आच्छादिता (परिष्कृता) परि+कृ-क्त। संपर्युषेभ्यः करोतौ भूषणे। पा० ६।१।१३७। इति सुट्। परिनिविभ्यः०। पा० ८।३।७०। इति षत्वम्। अलङ्कृता (यस्याः) (ते) तव (विचृतामसि) (अङ्गमङ्गम्) प्रत्यङ्गम् (परुष्परुः) प्रतिपर्व ॥
इस भाष्य को एडिट करें