अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 10
बृह॒स्पतिः॑ सवि॒ता ते॒ वयो॑ दधौ॒ त्वष्टु॑र्वा॒योः पर्या॒त्मा त॒ आभृ॑तः। अ॒न्तरि॑क्षे॒ मन॑सा त्वा जुहोमि ब॒र्हिष्टे॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठबृह॒स्पति॑: । स॒वि॒ता । ते॒ । वय॑: । द॒धौ॒ । त्वष्टु॑: । वा॒यो: । परि॑ । आ॒त्मा । ते॒ । आऽभृ॑त: । अ॒न्तरि॑क्षे । मन॑सा । त्वा॒ । जु॒हो॒मि॒ । ब॒र्हि: । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥४.१०॥
स्वर रहित मन्त्र
बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः। अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठबृहस्पति: । सविता । ते । वय: । दधौ । त्वष्टु: । वायो: । परि । आत्मा । ते । आऽभृत: । अन्तरिक्षे । मनसा । त्वा । जुहोमि । बर्हि: । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥४.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(बृहस्पतिः) बृहतां लोकानां पालकः (सविता) सर्वप्रेरकः परमेश्वरः (ते) तुभ्यं मनुष्याय (वयः) अन्नम्, बलम् (दधौ) ददौ (त्वष्टुः) विश्वकर्मणः सकाशात् (वायोः) सर्वव्यापकात् परमेश्वरात् (परि) सर्वतः (आत्मा) आत्मबलम् (ते) तव (आभृतः) सम्यक् पोषितः (अन्तरिक्षे) अ० १।३०।३। सर्वमध्ये दृश्यमाने परमेश्वरे (मनसा) विज्ञानेन (त्वा) मनुष्यम् (जुहोमि) गृह्णामि (बर्हिः) अ० ५।२२।१। वृद्धिः। वृद्धिकारणम्। (ते) तुभ्यम् (द्यावापृथिवी) सूर्यभूलोकौ (उभे) द्वे (स्ताम्) भवताम् ॥
इस भाष्य को एडिट करें