अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 13
भ॒सदा॑सीदादि॒त्यानां॒ श्रोणी॑ आस्तां॒ बृह॒स्पतेः॑। पुच्छं॒ वात॑स्य दे॒वस्य॒ तेन॑ धूनो॒त्योष॑धीः ॥
स्वर सहित पद पाठभ॒सत् । आ॒सी॒त् । आ॒दि॒त्याना॑म् । श्रोणी॒ इति॑ । आ॒स्ता॒म् । बृह॒स्पते॑: । पुच्छ॑म् । वात॑स्य । दे॒वस्य॑ । तेन॑ । धू॒नो॒ति॒ । ओष॑धी: ॥४.१३॥
स्वर रहित मन्त्र
भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः। पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥
स्वर रहित पद पाठभसत् । आसीत् । आदित्यानाम् । श्रोणी इति । आस्ताम् । बृहस्पते: । पुच्छम् । वातस्य । देवस्य । तेन । धूनोति । ओषधी: ॥४.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(भसत्) अ० ४।१४।८। नाभितलभागः (आसीत्) (आदित्यानाम्) सूर्याणाम् (श्रोणी) अ० २।३३।५। नितम्बौ (आस्ताम्) (बृहस्पतेः) बृहस्पतिलोकस्य (पुच्छम्) अ० ७।५६।६। लाङ्गूलम् (वातस्य) पवनस्य (देवस्य) गतिमतः (तेन) (पुच्छेन) (धूनोति) कम्पयति (ओषधीः) अन्नादिपदार्थान् ॥
इस भाष्य को एडिट करें