अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 17
शृङ्गा॑भ्यां॒ रक्ष॑ ऋष॒त्यव॑र्तिं हन्ति॒ चक्षु॑षा। शृ॒णोति॑ भ॒द्रं कर्णा॑भ्यां॒ गवां॒ यः पति॑र॒घ्न्यः ॥
स्वर सहित पद पाठशृङ्गा॑भ्याम् । रक्ष॑: । ऋ॒ष॒ति॒ । अव॑र्तिम् । ह॒न्ति॒ । चक्षु॑षा । शृ॒णोति॑ । भ॒द्रम् । कर्णा॑भ्याम् । गवा॑म् । य: । पति॑: । अ॒घ्न्य: ॥४.१७॥
स्वर रहित मन्त्र
शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा। शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥
स्वर रहित पद पाठशृङ्गाभ्याम् । रक्ष: । ऋषति । अवर्तिम् । हन्ति । चक्षुषा । शृणोति । भद्रम् । कर्णाभ्याम् । गवाम् । य: । पति: । अघ्न्य: ॥४.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(शृङ्गाभ्याम्) अ० ८।३।२४। प्रधान्याभ्यां प्रजापालनशत्रुनाशनाभ्याम् (रक्षः) राक्षसम्। विघ्नम् (ऋषति) रिषति। हिनस्ति। निर्गमयति (अवर्तिम्) निर्जीविकाम् (हन्ति) नाशयति (चक्षुषा) दृष्ट्या (शृणोति) (भद्रम्) कल्याणम् (कर्णाभ्याम्) श्रोत्राभ्याम् (गवाम्) पृथिव्यादिलोकानाम् (यः) परमेश्वरः (पतिः) स्वामी (अघ्न्यः) अहिंसकः। प्रजापतिः ॥
इस भाष्य को एडिट करें