Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    पुमा॑न॒न्तर्वा॒न्त्स्थवि॑रः॒ पय॑स्वा॒न्वसोः॒ कब॑न्धमृष॒भो बि॑भर्ति। तमिन्द्रा॑य प॒थिभि॑र्देव॒यानै॑र्हु॒तम॒ग्निर्व॑हतु जा॒तवे॑दाः ॥

    स्वर सहित पद पाठ

    पुमा॑न् । अ॒न्त:ऽवा॑न् । स्थवि॑र: । पय॑स्वान् । वसो॑: । कब॑न्धम् । ऋ॒ष॒भ: । बि॒भ॒र्ति॒ । तम् । इन्द्रा॑य । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । हु॒तम् । अ॒ग्नि: । व॒ह॒तु॒ । जा॒तऽवे॑दा: ॥४.३॥


    स्वर रहित मन्त्र

    पुमानन्तर्वान्त्स्थविरः पयस्वान्वसोः कबन्धमृषभो बिभर्ति। तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥

    स्वर रहित पद पाठ

    पुमान् । अन्त:ऽवान् । स्थविर: । पयस्वान् । वसो: । कबन्धम् । ऋषभ: । बिभर्ति । तम् । इन्द्राय । पथिऽभि: । देवऽयानै: । हुतम् । अग्नि: । वहतु । जातऽवेदा: ॥४.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 3

    टिप्पणीः - ३−(पुमान्) अ० १।८।१। पा रक्षणे−डुमसुन्। रक्षकः (अन्तर्वान्) अन्तर्-मतुप्। अन्तर्मध्ये सर्वं विद्यतेऽस्य सः (स्थविरः) अजिरशिशिरशिथिल०। उ० १।५३। ष्ठा गतिनिवृत्तौ-किरच्, धातोर्वुक्, ह्रस्वत्वं च। स्थिरः (पयस्वान्) अन्नवान् (वसोः) निवासशीलस्य संसारस्य (कबन्धम्) केन वायुना दध्यते, क+बन्ध बन्धने-घञ्। उदरम् (ऋषभः) म० १। सर्वव्यापकः (बिभर्ति) भरति (तम्) ऋषभम् (इन्द्राय) परमैश्वर्यप्राप्तये (पथिभिः) मार्गैः (देवयानैः) विद्वद्भिर्गमनीयैः (हुतम्) हु दानादानादनेषु-क्विप्, तुक् च। दातारम् (अग्निः) अग्निवत्तेजस्वी पुरुषः (वहतु) प्राप्नोतु (जातवेदाः) जातानि विद्यमानानि वेदांसि ज्ञानानि यस्य सः ॥

    इस भाष्य को एडिट करें
    Top