Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 16
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - अनुष्टुप् सूक्तम् - ऋषभ सूक्त

    ते कुष्ठि॑काः स॒रमा॑यै कु॒र्मेभ्यो॑ अदधुः श॒फान्। ऊब॑ध्यमस्य की॒टेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन् ॥

    स्वर सहित पद पाठ

    ते । कुष्ठि॑का: । स॒रमा॑यै । कू॒र्मेभ्य॑: । अ॒द॒धु॒: । श॒फान् । ऊब॑ध्यम् । अ॒स्य॒ । की॒टेभ्य॑: । श्वे॒ऽव॒र्तेभ्य॑: । अ॒धा॒र॒यन् ॥४.१६॥


    स्वर रहित मन्त्र

    ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान्। ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन् ॥

    स्वर रहित पद पाठ

    ते । कुष्ठिका: । सरमायै । कूर्मेभ्य: । अदधु: । शफान् । ऊबध्यम् । अस्य । कीटेभ्य: । श्वेऽवर्तेभ्य: । अधारयन् ॥४.१६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 16

    टिप्पणीः - १६−(ते) ऋषयः (कुष्ठिकाः) कुष्ठ-कन् स्वार्थे, टाप्। प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः। पा० ७।३।४४। अत इत्त्वम्। निष्कर्षणस्य बहिष्करणस्य प्रकृतीः (सरमायै) कलिकर्द्योरमः। उ० ४।८४। सृ गतौ-अम प्रत्ययः, टाप्। सरमा पदनाम-निघ० ५।५। सरमा सरणात्-निरु० ११।२४। श्वा काक इति कुत्सायाम्-निरु० ३।१८। सरणशीलायै कुक्कुर्यै (कूर्मेभ्यः) इषियुधीन्धि०। उ० १।१४५। डुकृञ् करणे कृञ् हिंसायां वा-मक्, ऊत्त्वं च। यद्वा। अर्त्तेरूच्च। उ० ४४।४। ऋ गतौ-मि, ऊत्। के देहे जले वा ऊर्मिर्वेगो यस्य स कूर्मः। शरीरस्थो वायुः। कच्छपः। सृष्टिकर्त्ता “परमेश्वरो यथा, परमेश्वरेणेदं सकलं जगत् क्रियते तस्मात् तस्य कूर्म इति संज्ञा”-दयानन्दकृता ऋग्वेदादिभाष्यभूमिका, पृष्ठे २९१। हिंसकेभ्यः कच्छपेभ्यः (अदधुः) दत्तवन्तः (शफान्) शम शान्तौ हिसायां च-अच्, मस्य फः पृषोदरादित्वात्। शम्नातिर्वधकर्मा-निघ० २।१९। हिंसकस्वभावान् (ऊबध्यम्) दुर्+वध संयमने=बन्धने-यत्, पृषोदरादित्वाद्दकारलोपे ऊत्त्वम्। दुर्बध्यं दुर्बन्धनीयं दुःखेन पचनीयम्। अजीर्णमन्नम् (अस्य) ऋषभस्य (कीटेभ्यः) कीट बन्धे वर्णे च-अच्। कृमिजातिभ्यः (श्ववर्तेभ्यः) श्वन् शव वा+वृतु वर्तने-घञ्। श्वसु कुक्कुरेषु शवेषु मृतदेहेषु वा वर्त्तमानेभ्यः (अधारयन्) धारितवन्तः ॥

    इस भाष्य को एडिट करें
    Top