अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 8
इन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्। बृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ॥
स्वर सहित पद पाठइन्द्र॑स्य । ओज॑: । वरु॑णस्य । बा॒हू इति॑ । अ॒श्विनो॑: । अंसौ॑ । म॒रुता॑म् । इ॒यम् । क॒कुत् । बृह॒स्पति॑म् । सम्ऽभृ॑तम् । ए॒तम् । आ॒हु॒: । ये । धीरा॑स: । क॒वय॑: । ये । म॒नी॒षिण॑: ॥४.८॥
स्वर रहित मन्त्र
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्। बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥
स्वर रहित पद पाठइन्द्रस्य । ओज: । वरुणस्य । बाहू इति । अश्विनो: । अंसौ । मरुताम् । इयम् । ककुत् । बृहस्पतिम् । सम्ऽभृतम् । एतम् । आहु: । ये । धीरास: । कवय: । ये । मनीषिण: ॥४.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(इन्द्रस्य) सूर्यस्य (ओजः) बलम् (वरुणस्य) जलस्य (बाहू) भुजौ यथा (अश्विनोः) अ० २।२९।६। अहोरात्रयोः-निरु० १२।१। (अंसौ) अम गतौ-स। स्कन्धौ यथा (मरुताम्) अ० १।२०।१। प्राणापानादिवायूनाम् (इयम्) (ककुत्) कं सुखं कौति, क+कु शब्दे-क्विप्, तुक्। सुखस्य शब्दयित्री शक्तिः (बृहस्पतिम्) बृहतां लोकानां स्वामिनम् (संभृतम्) क्विबन्तः। संभर्तारम् (एतम्) ऋषभम् (आहुः) कथयन्ति (ये) (धीरासः) धीमन्तः (कवयः) मेधाविनः (ये) (मनीषिणः) अ० ३।५।६। मनस्+ईषा-इनि। मनसो गतियुक्ताः ॥
इस भाष्य को एडिट करें