Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - जगती सूक्तम् - ऋषभ सूक्त

    सोमे॑न पू॒र्णं क॒लशं॑ बिभर्षि॒ त्वष्टा॑ रू॒पाणां॑ जनि॒ता प॑शू॒नाम्। शि॒वास्ते॑ सन्तु प्रज॒न्व इ॒ह या इ॒मा न्यस्मभ्यं॑ स्वधिते यच्छ॒ या अ॒मूः ॥

    स्वर सहित पद पाठ

    सोमे॑न । पू॒र्णम्‌ । क॒लश॑म् । बि॒भ॒र्षि॒ । त्वष्टा॑ । रूपाणा॑म् । ज॒नि॒ता । प॒शू॒नाम् । शि॒वा: । ते॒ । स॒न्तु॒ । प्र॒ऽज॒न्व᳡: । इ॒ह । या: । इ॒मा: । नि । अ॒स्मभ्य॑म् । स्व॒ऽधि॒ते॒ । य॒च्छ॒ । या: । अ॒मू: ॥४.६॥


    स्वर रहित मन्त्र

    सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम्। शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः ॥

    स्वर रहित पद पाठ

    सोमेन । पूर्णम्‌ । कलशम् । बिभर्षि । त्वष्टा । रूपाणाम् । जनिता । पशूनाम् । शिवा: । ते । सन्तु । प्रऽजन्व: । इह । या: । इमा: । नि । अस्मभ्यम् । स्वऽधिते । यच्छ । या: । अमू: ॥४.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 6

    टिप्पणीः - ६−(सोमेन) अमृतेन (पूर्णम्) पूरितम् (कलशम्) अ० ३।१२।७। पात्रम् (बिभर्षि) धरसि (त्वष्टा) अ० २।५।६। विश्वकर्मा (रूपाणाम्) रूपवताम् (जनिता) जनयिता (पशूनाम्) अ० ३।२८।१। पशवो व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। जीवानाम् (शिवाः) कल्याण्यः (ते) तव (सन्तु) (प्रजन्वः) कृषिचमितनि०। उ० १।८०। जन जनने−ऊः। स्त्रियाम्। प्रजननशक्तयः (इह) अत्र संसारे (याः) प्रजननशक्तयः (इमाः) समीपवर्तिन्यः (नि) नियमेन (अस्मभ्यम्) पुरुषार्थिभ्यः (स्वधिते) स्व+धि धारणे, यद्वा डुधाञ् धारणे-क्तिच्। स्वधितिः... स्वयं कर्माण्यात्मनि धत्ते-निरु० १४।१३। स्वधितिर्वज्रनाम-निघ० २।२०। हे स्वयं धारक परमेश्वर (यच्छ) देहि (याः) (अमूः) दूरवर्तिन्यः ॥

    इस भाष्य को एडिट करें
    Top